Select Page

श्रीकृष्णस्तोत्रं शम्भुकृतम्॥ महादेव उवाच ।जयस्वरुपं जयदं जयेशं जयकारणम् ।प्रवरं जयदानां च वन्दे तमपराजितम् ॥ १॥विश्वं विश्वेश्वरेशं च विश्वेशं विश्वकारणम् ।विश्वाधारं च विश्वस्थं विश्वकारणकारणम् ॥ २॥विश्वरक्षाकारणं च विश्वघ्नं विश्वजं परम् ।फलबीजं फलाधारं फलं च तत्फलप्रदम् ॥ ३॥तेजःस्वरुपं तेजोदं सर्वतेजस्विनां वरम् ।इत्येवमुक्त्वा तं नत्वा रत्नसिंहासने वरे ।नारायणं च सम्भाष्य उवास स तदाज्ञया ॥ ४॥इति शम्भुकृतं स्तोत्रं यो जनः संयतः पठेत् ।सर्वसिद्धिर्भवेत्तस्य विजयं च पदे पदे ॥ ५॥सन्ततं वर्धते मित्रं धनमैश्वर्यमेव च ।शत्रुसैन्यं क्षयं याति दुःखानि दुरितानि च ॥ ६॥इति ब्रह्मावैवर्ते शम्भुकृतं श्रीकृष्णस्तोत्रम् ।