Select Page

श्री नारायण उवाच

अथ विष्णु: सभामध्ये सम्पूज्य तं गणेश्वरम्।

तृष्टाव परया भक्त्या सर्वविघन्विनाशकम्॥

श्री विष्णु उवाच

ईश त्वां स्तोतुमिच्छामि ब्रह्मज्योति: सनातनम्।

निरूपितुमशक्तोऽहमनुरूपमनीहकम्॥

प्रवरं सर्वदेवानां सिद्धानां योगिनां गुरुम्।

सर्वस्वरूपं सर्वेशं ज्ञानराशिस्वरूपिणम्॥

अव्यक्तमक्षरं नित्यं सत्यमात्मस्वरूपिणम्।

वायुतुल्यातिनिर्लिप्तं चाक्षतं सर्वसाक्षिणम्॥

संसारार्णवपारे च मायापोते सुदुर्लभे।

कर्णधारस्वरूपं च भक्तानुग्रहकारकम्॥

वरं वरेण्यं वरदं वरदानामपीश्वरम्।

सिद्धं सिद्धिस्वरूपं च सिद्धिदं सिद्धिसाधनम्॥

ध्यानातिरिक्तं ध्येयं च ध्यानासाध्यं च धार्मिकम्।

धर्मस्वरूपं धर्मज्ञं धर्माधर्मफलप्रदम्॥

बीजं संसारवृक्षाणामङ्कुरं च तदाश्रयम्।

स्त्रीपुन्नपुंसकानां च रूपमेतदतीन्द्रियम्॥

सर्वाद्यमग्रपूज्यं च सर्वपूज्यं गुणार्णवम्।

स्वेच्छया सगुणं ब्रह्म निर्गुणं चापि स्वेच्छया॥

स्व्यं प्रकृतिरूपं च प्राकृतं प्रकृते: परम्।

त्वां स्तोतुमक्षमोऽनन्त: सहस्त्रवदनेन च॥

न क्षम: पञ्चवक्त्रश्च न क्षमश्चतुराननः।

सरस्वती न शक्ता च न शक्तोऽहं तव स्तुतौ॥

न शक्ताश्च चतुर्वेदा: के वा ते वेदवादिनः॥

इत्येवं स्तवनं कृत्वा सुरेशं सुरसंसदि।

सुरेशश्च सुरै: साद्र्ध विरराम रमापतिः॥

इदं विष्णुकृतं स्तोत्रं गणेशस्य च य: पठेत्।

सायंप्रातश्च मध्याह्ने भक्तियुक्त : समाहितः॥

तद्विघन्निघन् कुरुते विघनेश्वःसततं मुने।

वर्धते सर्वकल्याणं कल्याणजनक: सदा॥

यात्राकाले पठित्वा तु यो याति भक्तिपूर्वकम्।

तस्य सर्वाभीष्टसिद्धिर्भवत्येव न संशयः॥

तेन दृष्टं च दु:स्वपन् सुस्वपन्मुपजायते।

कदापि न भवेत्तस्य ग्रहपीडा च दारुणा॥

भवेद् विनाश: शत्रूणां बन्धूनां च विवर्धनम्।

शश्वद्विघन्विनाशश्च शश्वत् सम्पद्विवर्धनम्॥

स्थिरा भवेद् गृहे लक्ष्मी: पुत्रपौत्रविवर्धिनी।

सर्वैश्वर्यमिह प्राप्य ह्यन्ते विष्णुपदं लभेत्॥

फलं चापि च तीर्थानां यज्ञानां यद् भवेद् ध्रुवम्।

महतां सर्वदानानां श्री गणेशप्रसादतः॥

(ब्रह्म वैवर्त पुराण, गणपतिखण्ड: अध्याय 13)